|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.9. अध्यायः 009
Mahabharata - Bhishma Parva - Chapter Topics
भारतवर्षस्थनदीपर्वतदेशानां विस्तरेण कथनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-9-0x(3974)(38933)
यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥ 6-9-1(38934)
यत्र गृद्धा पाण्डुपुत्रा यत्र मे सञ्जते मनः।
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥ 6-9-2(38935)
संजय उवाच। 6-9-3x(3975)
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ 6-9-3(38936)
अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः ।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ 6-9-4(38937)
अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् ।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ 6-9-5(38938)
पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ 6-9-6(38939)
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ 6-9-7(38940)
कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः ।
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥ 6-9-8(38941)
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ 6-9-9(38942)
तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम ।
श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ 6-9-10(38943)
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ 6-9-11(38944)
तेषां सहस्रशो राजन्पर्वतास्ते समीपतः।
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ 6-9-12(38945)
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ 6-9-13(38946)
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् ।
गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ 6-9-14(38947)
शतद्रूं चन्द्रभागां च यमुनां च महानदीम् ।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ 6-9-15(38948)
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ 6-9-16(38949)
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम्।
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥ 6-9-17(38950)
गोमतीं धूतपापां च वन्दनां च महानदीम् ।
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ॥ 6-9-18(38951)
रहस्यां शतकुम्भां च सरयूं च तथैव च।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ 6-9-19(38952)
शरावतीं पयोष्णीं च वेणां भीमरथीमपि ।
कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥ 6-9-20(38953)
नीवारामहितां चापि सुप्रयोगां जनाधिप ।
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥ 6-9-21(38954)
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा।
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥ 6-9-22(38955)
करीषिणीमसिक्नीं च कुशचीरां महानदीम् ।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥ 6-9-23(38956)
पुरावतीमनुष्णां च शैब्यां कापीं च भारत ।
सदानीरामधृष्यां च कुशधारां महानदीम् ॥ 6-9-24(38957)
सदाकान्तां शिवां चैव तथा वीरवतीमपि।
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥ 6-9-25(38958)
वरां वीरकरां चापि पञ्चमीं च महानदीम् ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ 6-9-26(38959)
उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् ।
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥ 6-9-27(38960)
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि।
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥ 6-9-28(38961)
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्।
कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ॥ 6-9-29(38962)
दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् ।
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥ 6-9-30(38963)
सुनसां तमसां दासीं वसामन्यां वराणसीम् ।
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥ 6-9-31(38964)
मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम्।
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥ 6-9-32(38965)
सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥ 6-9-33(38966)
चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा ।
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥ 6-9-34(38967)
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥ 6-9-35(38968)
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥ 6-9-36(38969)
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः।
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः॥ 6-9-37(38970)
इत्येताः सरितो राजन्समाख्याता यथास्मृति।
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥ 6-9-38(38971)
तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥ 6-9-39(38972)
मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः ।
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥ 6-9-40(38973)
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥ 6-9-41(38974)
गोधा मद्रकलिङ्गाश्छ काशयोऽपरकाशयः ।
जठराः कुकुराश्चैव सदशार्णाश्च भारत ॥ 6-9-42(38975)
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ।
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥ 6-9-43(38976)
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः।
अधिराज्यकुशाद्यश्च मल्लराष्ट्रं च केवलम् ॥ 6-9-44(38977)
वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः।
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥ 6-9-45(38978)
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च।
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥ 6-9-46(38979)
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः।
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥ 6-9-47(38980)
अटवीशिखराश्चैव मेरुभूताश्च मारिष ।
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥ 6-9-48(38981)
कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः ।
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥ 6-9-49(38982)
बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः ।
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥ 6-9-50(38983)
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा।
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥ 6-9-51(38984)
दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा।
तीरग्रहाः शूरसेना ईजिकाः कन्यका गुणाः ॥ 6-9-52(38985)
तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ 6-9-53(38986)
अभीसारा उलूताश्च शैवला बाह्लिकास्तथा ।
दार्वी च वानवा दर्वा वातजामरथोरगाः ॥ 6-9-54(38987)
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः।
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥ 6-9-55(38988)
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः।
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥ 6-9-56(38989)
किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः।
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥ 6-9-57(38990)
अथापरे जनपदा दक्षिणा भरतर्षभ ।
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥ 6-9-58(38991)
कर्णाटका महिषका विकल्पा मूषकास्तथा ।
झिल्लिकाः कुन्तलाश्चैव सौहृदानभकाननाः ॥ 6-9-59(38992)
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः ।
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥ 6-9-60(38993)
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः साल्वसेनयः।
व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ॥ 6-9-61(38994)
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह।
मालवा बल्लवाश्चैव तथैवापरबल्लवाः ॥ 6-9-62(38995)
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा ।
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः॥ 6-9-63(38996)
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा ।
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥ 6-9-64(38997)
उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम।
यवनाश्चीनकाभ्योजा दारुणा म्लेच्छजातयः ॥ 6-9-65(38998)
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह।
तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥ 6-9-66(38999)
क्षत्रिकयोपनिवेशाश्च वैश्यशूद्रकुलानि च।
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ 6-9-67(39000)
खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः।
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥ 6-9-68(39001)
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ 6-9-69(39002)
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च।
उद्देशमात्रेण मया देशाः संकीर्तिता विभो ॥ 6-9-70(39003)
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।
दुह्याद्धेनुः कामधुक्क भूमिः सम्यगनुष्ठिता ॥ 6-9-71(39004)
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थक्रोविदाः ।
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥ 6-9-72(39005)
देवमानुषकायानां कामं भूमिः परायणम् ।
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥ 6-9-73(39006)
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्।
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥ 6-9-74(39007)
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।
साम्ना भेदेन दानेन दण्डेनैव च भारत ॥ 6-9-75(39008)
पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव ।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥ ॥ 6-9-76(39009)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि नवमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-9-2 गृद्धाः लोभयुक्ताः । एतत् एतस्य । मे मह्यम् । तत्त्वं याथार्थ्यम् ॥ 6-9-5 प्रियमिति। कर्मभूमित्वादिन्द्रादीनामिदं प्रियंक ॥ 6-9-71 ययागुणबलमिति। यथागुणं सत्त्वादिगुणान् अनतिक्रम्य। तद्वत् यथाबलं शौर्यं चानतिक्रम्य। त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलं उत्कृष्टफलं हैरण्यगर्भपदप्राप्त्यन्तं सम्यगनुष्ठिता सम्यक् पालिता भूमिर्दुह्यात् पूरयेत् । धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ॥ 6-9-73 देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ॥ 6-9-76 अच्छिद्रं संपूर्णं दर्शनं यस्याः सा भूमिः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|